Sukta 8.92
पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् । इन्द्र इति ब्रवीतन ॥
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥
puru-hūtáṃ puru-stutáṃ gāthānyàṃ sánā-śrutam | índra íti bravītana ||
Call him ‘Indra’—the much-invoked, the much-praised, the one fit for the song of the soul, the anciently heard: affirm that name in your utterance and make it living.
पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् । इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥पुरुहूतम् । पुरुस्तुतम् । गाथान्यम् । सनश्रुतम् । इन्द्रः । इति । ब्रवीतन ॥puru-hūtam | puru-stutam | gāthānyam | sana-śrutam | indraḥ | iti | bravītana