Sukta 8.92
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः । विश्वासु दस्म कृष्टिषु ॥
वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः । विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥
vidmā́ hí yás te adrivaḥ tvā́dattaḥ satya somapāḥ | víśvāsu dasma kṛ́ṣṭiṣu ||
For we know the one who is truly given to you, O holder of the stone; O true Soma-drinker, O wondrous one—among all the peoples he is yours.
वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒ऽवः॒ । त्वाऽद॑त्तः । स॒त्य॒ । सो॒म॒ऽपाः॒ । विश्वा॑सु । द॒स्म॒ । कृ॒ष्टिषु॑ ॥विद्म । हि । यः । ते । अद्रिवः । त्वादत्तः । सत्य । सोमपाः । विश्वासु । दस्म । कृष्टिषु ॥vidma | hi | yaḥ | te | adri-vaḥ | tvādattaḥ | satya | soma-pāḥ | viśvāsu | dasma | kṛṣṭiṣu