Sukta 8.92
यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । य ओजोदातमो मदः ॥
यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः । य ओ॑जो॒दात॑मो॒ मद॑: ॥
yás te citráśravastamo yá índra vṛtrahántamaḥ | yá ojodā́tamo mádaḥ ||
That rapture of yours—most rich in luminous inspirations, O Indra; most puissant in the slaying of the Coverer; most giving of strength—may it be active in us.
यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः । यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥यः । ते । चित्रश्रवःतमः । यः । इन्द्र । वृत्रहन्तमः । यः । ओजःदातमः । मदः ॥yaḥ | te | citraśravaḥ-tamaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ojaḥ-dātamaḥ | madaḥ