Sukta 8.92
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः । तेन नूनं मदे मदेः ॥
यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑: । तेन॑ नू॒नं मदे॑ मदेः ॥
yás te nū́naṃ śatakratav índra dyumní-tamo mádaḥ | téna nū́naṃ máde madeḥ ||
That rapture of yours, O Indra of a hundred powers—the most luminous and triumphant—by that rapture now may you be rapturous within our ecstasy.
यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ । तेन॑ । नू॒नम् । मदे॑ । म॒देः॒ ॥यः । ते । नूनम् । शतक्रतो इति शतक्रतो । इन्द्र । द्युम्नितमः । मदः । तेन । नूनम् । मदे । मदेः ॥yaḥ | te | nūnam | śatakrato itiśata-krato | indra | dyumni-tamaḥ | madaḥ | tena | nūnam | made | madeḥ