Sukta 8.92
वयमु त्वा शतक्रतो गावो न यवसेष्वा । उक्थेषु रणयामसि ॥
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥
vayámu tvā śatakrato gā́vo na yávaseṣv ā́ | uktheṣú raṇayāmasi ||
We, O Shatakratu, move toward you as the herds move toward their pasture; in our hymns we make you resound and take delight in your presence.
व॒यम् । ऊँ॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ । उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥वयम् । ऊँ इति । त्वा । शतक्रतो इति शतक्रतो । गावः । न । यवसेषु । आ । उक्थेषु । रणयामसि ॥vayam | oṃ iti | tvā | śatakrato itiśata-krato | gāvaḥ | na | yavaseṣu | ā | uktheṣu | raṇayāmasi