Sukta 8.92
अतश्चिदिन्द्र ण उपा याहि शतवाजया । इषा सहस्रवाजया ॥
अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥
atáś cid indra ṇa upá ā́ yāhi śatá-vājayā | iṣā́ sahásra-vājayā ||
Even from there, O Indra, come near to us—bringing the hundredfold plenitudes of force; come with the impulsion that bears a thousand powers.
अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया । इ॒षा । स॒हस्र॑ऽवाजया ॥अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतवाजया । इषा । सहस्रवाजया ॥ataḥ | cit | indra | naḥ | upa | ā | yāhi | śata-vājayā | iṣā | sahasra-vājayā