Sukta 8.90
त्वमिन्द्र यशा अस्यृजीषी शवसस्पते । त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥
त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते । त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥
tvám indra yaśā́ asy ṛjīṣī́ śavasaspate | tváṃ vṛtrā́ṇi haṃsy apratī́ny éka íd anuttā́ carṣaṇīdhṛ́tā ||
You, O Indra, are the glory; the straight-driving lord of force. You alone slay the obstructions that cannot be faced; unsurpassed, you uphold the peoples—upholding in us the human field for the Truth’s victory.
त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ । त्वम् । वृ॒त्राणि॑ । हं॒सि॒ । अ॒प्र॒तीनि॑ । एकः॑ । इत् । अनु॑त्ता । च॒र्ष॒णि॒ऽधृता॑ ॥त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पते । त्वम् । वृत्राणि । हंसि । अप्रतीनि । एकः । इत् । अनुत्ता । चर्षणिधृता ॥tvam | indra | yaśāḥ | asi | ṛjīṣī | śavasaḥ | pate | tvam | vṛtrāṇi | haṃsi | apratīni | ekaḥ | it | anuttā | carṣaṇi-dhṛtā