Sukta 8.90
त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे । स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥
त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥
tváṃ hí satyó maghavann ánānataḥ vṛtrā́ bhū́ri nyṛñjáse | sá tváṃ śavíṣṭha vajrahasta dāśúṣe 'rvā́ñcaṃ rayím ā́ kṛdhi ||
For you are the true one, O bountiful; never bending back, you strike down many obstructions. Therefore, O most forceful, thunder-weaponed, for the giver of offering make the wealth come near—make the fullness of being approach us.
त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ । सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥त्वम् । हि । सत्यः । मघवन् । अनानतः । वृत्रा । भूरि । निऋञ्जसे । सः । त्वम् । शविष्ठ । वज्रहस्त । दाशुषे । अर्वाञ्चम् । रयिम् । आ । कृधि ॥tvam | hi | satyaḥ | magha-van | anānataḥ | vṛtrā | bhūri | ni-ṛñjase | saḥ | tvam | śaviṣṭha | vajra-hasta | dāśuṣe | arvāñcam | rayim | ā | kṛdhi