Sukta 8.90
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् । तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥
tváṃ dātā́ prathamó rā́dhasām asyási satyá īśānakṛ́t | tuvídyumnasya yújyā́ vṛṇīmahe putrásya śávaso maháḥ ||
You are the first giver of fulfillments; you are the true lord who makes mastery. We choose the yoking to your abundant luminous power—the great force of your sonhood that increases might within us.
त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् । तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानकृत् । तुविद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवसः । महः ॥tvam | dātā | prathamaḥ | rādhasām | asi | asi | satyaḥ | īśāna-kṛt | tuvi-dyumnasya | yujyā | ā | vṛṇīmahe | putrasya | śavasaḥ | mahaḥ