Sukta 8.90
आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥
आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्र॑: स॒मत्सु॑ भूषतु । उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥
ā́ no víśvāsu hávya índraḥ samátsu bhūṣatu | úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛcī́ṣamaḥ ||
May Indra, the power to be invoked, come to us in all our battles; let the slayer of the Coverer draw near to our mantras and our pressings. Supreme in onset, master of the seer-word, may he take his seat within our offering.
आ । नः॒ । विश्वा॑सु । हव्यः॑ । इन्द्रः॑ । स॒मत्ऽसु॑ । भू॒ष॒तु॒ । उप॑ । ब्रह्मा॑णि । सव॑नानि । वृ॒त्र॒ऽहा । प॒र॒म॒ऽज्याः । ऋची॑षमः ॥आ । नः । विश्वासु । हव्यः । इन्द्रः । समत्सु । भूषतु । उप । ब्रह्माणि । सवनानि । वृत्रहा । परमज्याः । ऋचीषमः ॥ā | naḥ | viśvāsu | havyaḥ | indraḥ | samat-su | bhūṣatu | upa | brahmāṇi | savanāni | vṛtra-hā | parama-jyāḥ | ṛcīṣamaḥ