Sukta 8.89
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत । वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥
prá va indrā́ya bṛhaté máruto bráhmārcata | vṛtráṃ hanati vṛtrahā́ śatákratur vájreṇa śatáparvaṇā ||
Bring forward your sacred word for the vast Indra, O Maruts. The slayer of the Coverer strikes down Vṛtra with the thunderbolt of a hundred joints—by a will of a hundred powers.
प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ । वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत । वृत्रम् । हनति । वृत्रहा । शतक्रतुः । वज्रेण । शतपर्वणा ॥pra | vaḥ | indrāya | bṛhate | marutaḥ | brahma | arcata | vṛtram | hanati | vṛtra-hā | śata-kratuḥ | vajreṇa | śata-parvaṇā