Sukta 8.89
अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् । देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥
ápā dhamad abhíśastīr aśastihā́théndro dyumnyā́bhavat | devā́sta indra sakhyā́ya yemire bṛhád-bhāno marúd-gaṇa ||
He blew away the hostile assailments, the slayer of the unspoken darkness; then Indra became full of luminous glory. The gods joined you, O Indra, for comradeship—O wide-shining one, with the Marut host.
अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् । दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥अप । अधमत् । अभिशस्तीः । अशस्तिहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् । देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्भानो । मरुत्गण ॥apa | adhamat | abhi-śastīḥ | aśasti-hā | atha | indraḥ | dyumnī | ā | abhavat | devāḥ | te | indra | sakhyāyayemire | bṛhadbhāno itibṛhat-bhāno | marut-gaṇa