Sukta 8.89
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
bṛhád indrā́ya gāyata máruto vṛtrahántamam | yéna jyótir ájanayan ṛtā́vṛdho deváṃ devā́ya jā́gṛvi ||
Sing the vast hymn to Indra, O Maruts, to the most slayer of the Coverer. By whom you brought forth the Light, you who increase the Truth—awaken the God for the godhead within us.
बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् । येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्तमम् । येन । ज्योतिः । अजनयन् । ऋतवृधः । देवम् । देवाय । जागृवि ॥bṛhat | indrāya | gāyata | marutaḥ | vṛtraham-tamam | yena | jyotiḥ | ajanayan | ṛta-vṛdhaḥ | devam | devāya | jāgṛvi