Sukta 8.87
आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः । दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥
आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः । दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥
ā nūnaṃ yātam aśvinā aśvebhiḥ pruṣitapsu-bhiḥ | dasrā hiraṇyavartanī śubhaspatī pātaṃ somam ṛtāvṛdhā ||
Come now, O Aśvins, with your horses that are swift and fire-splendid. O wonder-workers with golden paths, lords of beauty, drink the Soma—you who increase the Ṛta within us.
आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः । दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सुभिः । दस्रा । हिरण्यवर्तनी इति हिरण्यवर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋतवृधा ॥ā | nūnam | yātam | aśvinā | aśvebhiḥ | pruṣitapsu-bhiḥ | dasrā | hiraṇyavartanī itihiraṇya-vartanī | śubhaḥ | patī iti | pātam | somam | ṛta-vṛdhā