Sukta 8.87
वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥
vayaṃ hi vāṃ havāmahe vipanyavo viprāso vāja-sātaye | tā valgū dasrā puru-daṃsasā dhiyā aśvinā śruṣṭyā gatam ||
For we call you, we the seekers of inspired utterance, we the seers, for the winning of plenitude of force. O gracious wonder-workers of many powers, O Aśvins, come by our thought and by your hearing response.
व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये । ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजसातये । ता । वल्गू इति । दस्रा । पुरुदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥vayam | hi | vām | havāmahe | vipanyavaḥ | viprāsaḥ | vāja-sātaye | tā | valgū iti | dasrā | puru-daṃsasā | dhiyā | aśvinā | śruṣṭī | ā | gatam