Sukta 8.87
पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् । ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥
पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥
pibatam somaṃ madhumantam aśvinā barhiḥ sīdatam su-mat | tā vavṛdhānau upa su-stutiṃ divo gantaṃ gaurāv iveriṇam ||
Drink the Soma, honeyed with delight, O Aśvins; sit on the sacred seat with right-mindedness. You who grow by our offering, come near to the good praise from heaven—like two bright ones on the open field.
पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् । ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥पिबतम् । सोमम् । मधुमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुमत् । ता । ववृधानौ । उप । सुस्तुतिम् । दिवः । गन्तम् । गौरौइव । इरिणम् ॥pibatam | somam | madhu-mantam | aśvinā | ā | barhiḥ | sīdatam | su-mat | tā | vavṛdhānau | upa | su-stutim | divaḥ | gantam | gaurau-iva | iriṇam