Sukta 8.87
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत । ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥
आ वां॒ विश्वा॑भिरू॒तिभि॑: प्रि॒यमे॑धा अहूषत । ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥
ā vāṃ viśvābhir ūti-bhiḥ priya-medhā ahūṣata | tā vartiḥ yātam upa vṛkta-barhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu ||
With all your helps the Priyamedhas have called you. Come then by your path to the sacrifice of the spread seat, to the well-accepted offering in the striving for heaven-light.
आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ । ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥आ । वाम् । विश्वाभिः । ऊतिभिः । प्रियमेधाः । अहूषत । ता । वर्तिः । यातम् । उप । वृक्तबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥ā | vām | viśvābhiḥ | ūti-bhiḥ | priya-medhāḥ | ahūṣata | tā | vartiḥ | yātam | upa | vṛkta-barhiṣaḥ | juṣṭam | yajñam | diviṣṭiṣu