Sukta 8.86
युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
yuváṃ hí ṣmā purubhujemám édhatum viṣṇā́pve dadathur vásya iṣṭáye | tā́ vāṃ víśvako hávate tanū-kṛ́the mā́ no ví yauṣṭaṃ sakhyā́ mumócatam ||
For you two indeed have granted this one to grow in abundance—(even) to Viṣṇāpū—for the seeking of the better. Therefore Viśvaka calls you for the shaping of the embodied being: do not sunder us; do not release the bond of friendship.
यु॒वम् । हि । स्म॒ । पु॒रु॒ऽभु॒जा॒ । इ॒मम् । ए॒ध॒तुम् । वि॒ष्णा॒प्वे॑ । द॒दथुः॑ । वस्यः॑ऽइष्टये । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥युवम् । हि । स्म । पुरुभुजा । इमम् । एधतुम् । विष्णाप्वे । ददथुः । वस्यःइष्टये । ता । वाम् । विश्वकः । हवते । तनूकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥yuvam | hi | sma | puru-bhujā | imam | edhatum | viṣṇāpve | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam