Sukta 8.86
कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
kathā́ nū́naṃ vāṃ vímanā úpa stavad yuváṃ dhíyaṃ dadathur vásya iṣṭáye | tā́ vāṃ víśvako hávate tanū-kṛ́the mā́ no ví yauṣṭaṃ sakhyā́ mumócatam ||
How now would the troubled-minded one draw near and praise you, unless you two grant the illumined thought for the seeking of a better state? Therefore Viśvaka calls you for the shaping of the embodied being: do not sunder us; do not release the bond of friendship.
क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥कथा । नूनम् । वाम् । विमनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यःइष्टये । ता । वाम् । विश्वकः । हवते । तनूकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥kathā | nūnam | vām | vi-manāḥ | upa | stavat | yuvam | dhiyam | dadathuḥ | vasyaḥ-iṣṭaye | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam