Sukta 8.86
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑: । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
ubhā́ hí dasrā́ bhiṣájā mayobhúvobhā́ dákṣasya vácaso babhū́vathuḥ | tā́ vāṃ víśvako hávate tanū-kṛ́the mā́ no ví yauṣṭaṃ sakhyā́ mumócatam ||
You two are indeed wondrous, you two are healers, you two are bringers of gladness; you have become powers of skill and of the inspired word. Therefore Viśvaka calls you for the shaping of the embodied being: do not sever us; do not loosen the bond of friendship that holds the soul to its helpers.
उ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥उभा । हि । दस्रा । भिषजा । मयःभुवा । उभा । दक्षस्य । वचसः । बभूवथुः । ता । वाम् । विश्वकः । हवते । तनूकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ubhā | hi | dasrā | bhiṣajā | mayaḥ-bhuvā | ubhā | dakṣasya | vacasaḥ | babhūvathuḥ | tā | vām | viśvakaḥ | havate | tanū-kṛthe | mā | naḥ | vi | yauṣṭam | sakhyā | mumocatam