Sukta 8.85
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना । मध्वः सोमस्य पीतये ॥
गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना । मध्व॒: सोम॑स्य पी॒तये॑ ॥
gácchatam dāśúṣo gṛhám itthā́ stuvató aśvinā | mádhvaḥ sómasya pītáye ||
Go to the house of the giver—thus, of the one who praises, O Ashvins—for the drinking of the honeyed Soma, the delight prepared in the human home of the soul.
गच्छ॑तम् । दा॒शुषः॑ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥गच्छतम् । दाशुषः । गृहम् । इत्था । स्तुवतः । अश्विना । मध्वः । सोमस्य । पीतये ॥gacchatam | dāśuṣaḥ | gṛham | itthā | stuvataḥ | aśvinā | madhvaḥ | somasya | pītaye