Sukta 8.85
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा । मध्वः सोमस्य पीतये ॥
शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा । मध्व॒: सोम॑स्य पी॒तये॑ ॥
śṛṇutáṃ jaritúr hávaṃ kṛ́ṣṇasya stuvató narā | mádhvaḥ sómasya pītáye ||
Hear the call of the singer—of Krishna who praises, O heroic Twins—for the drinking of the honeyed Soma, the delight that makes the being glad and whole.
शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । कृष्ण॑स्य । स्तु॒व॒तः । न॒रा॒ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥शृणुतम् । जरितुः । हवम् । कृष्णस्य । स्तुवतः । नरा । मध्वः । सोमस्य । पीतये ॥śṛṇutam | jarituḥ | havam | kṛṣṇasya | stuvataḥ | narā | madhvaḥ | somasya | pītaye