Sukta 8.85
अयं वां कृष्णो अश्विना हवते वाजिनीवसू । मध्वः सोमस्य पीतये ॥
अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू । मध्व॒: सोम॑स्य पी॒तये॑ ॥
ayáṃ vāṃ kṛ́ṣṇo aśvinā hávate vājinīvasū | mádhvaḥ sómasya pītáye ||
This seeker, Krishna, calls you, O Ashvins—lords of the plenitudes of force—to drink the honey-sweet Soma: the delight that strengthens the inner being.
अ॒यम् । वा॒म् । कृष्णः॑ । अ॒श्वि॒ना॒ । हव॑ते । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥अयम् । वाम् । कृष्णः । अश्विना । हवते । वाजिनीवसू इति वाजिनीवसू । मध्वः । सोमस्य । पीतये ॥ayam | vām | kṛṣṇaḥ | aśvinā | havate | vājinīvasūitivājinī-vasū | madhvaḥ | somasya | pītaye