Sukta 8.83
अधि न इन्द्रैषां विष्णो सजात्यानाम् । इता मरुतो अश्विना ॥
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् । इ॒ता मरु॑तो॒ अश्वि॑ना ॥
ádhi na indra eṣā́m víṣṇo iti sa-jā́tyānām | itā́ marúto aśvínā ||
Set over us, O Indra, and (you) Vishnu—over this kinship of powers; and come here, O Maruts, O Ashvins, to govern our movement.
अधि॑ । नः॒ । इ॒न्द्र॒ । ए॒षा॒म् । विष्णो॒ इति॑ । स॒ऽजा॒त्या॑नाम् । इ॒त । मरु॑तः । अश्वि॑ना ॥अधि । नः । इन्द्र । एषाम् । विष्णो इति । सजात्यानाम् । इत । मरुतः । अश्विना ॥adhi | naḥ | indra | eṣām | viṣṇo iti | sa-jātyānām | ita | marutaḥ | aśvinā