Sukta 8.83
वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना । देवा वृधाय हूमहे ॥
व॒यमिद्व॑: सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना । देवा॑ वृ॒धाय॑ हूमहे ॥
vayám íd vaḥ su-dā́navaḥ kṣiyántaḥ yā́ntaḥ ádhvan ā́ | devā́ vṛdhā́ya hūmahe ||
We indeed, O generous ones, whether dwelling or journeying on the path, call you, O Gods, for our increase and growth of being.
व॒यम् । इत् । वः॒ । सु॒ऽदा॒न॒वः॒ । क्षि॒यन्तः॑ । यान्तः॑ । अध्व॑न् । आ । देवाः॑ । वृ॒धाय॑ । हू॒म॒हे॒ ॥वयम् । इत् । वः । सुदानवः । क्षियन्तः । यान्तः । अध्वन् । आ । देवाः । वृधाय । हूमहे ॥vayam | it | vaḥ | su-dānavaḥ | kṣiyantaḥ | yāntaḥ | adhvan | ā | devāḥ | vṛdhāya | hūmahe