Sukta 8.83
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् । वामं ह्यावृणीमहे ॥
वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् । वा॒मं ह्या॑वृणी॒महे॑ ॥
vāmáṃ no astv aryaman vāmáṃ varuṇa śáṃsyam | vāmáṃ hí āvṛṇīmahe ||
Let there be for us the good and desirable, O Aryaman; O Varuṇa, the good that is to be affirmed—yes, the good we choose and take into ourselves.
वा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य॑म् । वा॒मम् । हि । आ॒ऽवृ॒णी॒महे॑ ॥वामम् । नः । अस्तु । अर्यमन् । वामम् । वरुण । शंस्यम् । वामम् । हि । आवृणीमहे ॥vāmam | naḥ | astu | aryaman | vāmam | varuṇa | śaṃsyam | vāmam | hi | āvṛṇīmahe