Sukta 8.82
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे । पिबेदस्य त्वमीशिषे ॥
यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे । पिबेद॑स्य॒ त्वमी॑शिषे ॥
yó apsú candrámā iva sómaś camū́ṣu dadṛ́śe | píbéd asya tvám ī́śiṣe ||
That Soma which is seen in the bowls like a moon in the waters—drink of it; thou art the lord of its working.
यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे । पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥यः । अप्सु । चन्द्रमाःइव । सोमः । चमूषु । ददृशे । पिब । इत् । अस्य । त्वम् । ईशिषे ॥yaḥ | ap-su | candramāḥ-iva | somaḥ | camūṣu | dadṛśe | piba | it | asya | tvam | īśiṣe