Sukta 8.82
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । पिबेदस्य त्वमीशिषे ॥
य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः । पिबेद॑स्य॒ त्वमी॑शिषे ॥
yá índra camaséṣv ā́ sómaś camū́ṣu te sutáḥ | píbéd asya tvám ī́śiṣe ||
That Soma which is pressed for thee in the cups and in the bowls—drink of it; thou art the lord and disposer of its power.
यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः । पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः । पिब । इत् । अस्य । त्वम् । ईशिषे ॥yaḥ | indra | camaseṣu | ā | somaḥ | camūṣu | te | sutaḥ | piba | it | asya | tvam | īśiṣe