Sukta 8.82
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः । वि पीतिं तृप्तिमश्नुहि ॥
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः । वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥
índra śrudhí sú me hávam asmè sutásya gómataḥ | ví pītíṃ tṛ́ptim aśnuhi ||
O Indra, hear well my call: in us is the pressed Soma rich with rays; attain wide drinking and fullness of satisfaction.
इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः । वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोमतः । वि । पीतिम् । तृप्तिम् । अश्नुहि ॥indra | śrudhi | su | me | havam | asme iti | sutasya | go--mataḥ | vi | pītim | tṛptim | aśnuhi