Sukta 8.82
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । पिबा दधृग्यथोचिषे ॥
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑: । पिबा॑ द॒धृग्यथो॑चि॒षे ॥
tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ | píba dadhṛ́g yáthociṣé ||
Come—here are the keen Somadrinks, pressed out and eager to intoxicate with divine ecstasy; drink as the holder of the foundation, for thy luminous satisfaction.
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ । पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः । पिब । दधृक् । यथा । ओचिषे ॥tīvrāḥ | somāsaḥ | ā | gahi | sutāsaḥ | mādayiṣṇavaḥ | piba | dadhṛk | yathā | ociṣe