Sukta 8.80
तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि । आदित्पतिर्न ओहसे ॥
तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि । आदित्पति॑र्न ओहसे ॥
turī́yaṃ nā́ma yajñíyaṃ yadā́ káraḥ tád uśmasi | ā́dit pátir na ohase ||
When thou makest manifest the fourth, the sacrificial Name (the deeper power of invocation), then we grow ardent for it; then the Lord becomes our helper and bearer of strength for the onward movement.
तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ । आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥तुरीयम् । नाम । यज्ञियम् । यदा । करः । तत् । उश्मसि । आत् । इत् । पतिः । नः । ओहसे ॥turīyam | nāma | yajñiyam | yadā | karaḥ | tat | uśmasi | āt | it | patiḥ | naḥ | ohase