Sukta 8.80
अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः । तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः । तस्मा॑ उ॒ राध॑: कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
avīvṛ́dhad vo amṛ́tā amándīd éka-dyūr devā́ utá yā́ś ca devī́ḥ | tásmai u rādhaḥ kṛṇuta pra-śastáṃ prātár makṣū dhiyā́vasur jagamyāt ||
The immortals have increased you; the One-Light of the gods has rejoiced, and the goddesses too. For him fashion a glory that is truly to be praised; may he swiftly come at dawn, rich in vision and in the wealth of thought.
अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ । तस्मै॑ । ऊँ॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥अवीवृधत् । वः । अमृताः । अमन्दीत् । एकद्यूः । देवाः । उत । याः । च । देवीः । तस्मै । ऊँ इति । राधः । कृणुत । प्रशस्तम् । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥avīvṛdhat | vaḥ | amṛtāḥ | amandīt | eka-dyūḥ | devāḥ | uta | yāḥ | ca | devīḥ | tasmai | oṃ iti | rādhaḥ | kṛṇuta | pra-śastam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt