Sukta 8.80
इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् । इयं धीॠत्वियावती ॥
इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् । इ॒यं धीॠ॒त्विया॑वती ॥
indra dṛ́hyasva pū́r asi bhadrā́ ta eti niṣ-kṛtám | iyáṃ dhī́ ṛtvíyāvatī ||
O Indra, become firm; you are the stronghold. A happy release comes to you. This inspired thought, rich in the right season and right order, advances toward its perfect execution.
इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् । इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥इन्द्र । दृह्यस्व । पूः । असि । भद्रा । ते । एति । निःकृतम् । इयम् । धीः । ऋत्वियवती ॥indra | dṛhyasva | pūḥ | asi | bhadrā | te | eti | niḥ-kṛtam | iyam | dhīḥ | ṛtviya-vatī