Sukta 8.80
अवा नो वाजयुं रथं सुकरं ते किमित्परि । अस्मान्त्सु जिग्युषस्कृधि ॥
अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ । अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥
ávā no vāja-yúṃ ráthaṃ su-káraṃ te kím ít pári | asmā́nt su jigyúṣaḥ kṛdhi ||
Bring to us the chariot that seeks plenitude, easy for your power to fashion—what could stand around as an obstacle? Make us truly the conquerors in the struggle.
अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ । अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥अव । नः । वाजयुम् । रथम् । सुकरम् । ते । किम् । इत् । परि । अस्मान् । सु । जिग्युषः । कृधि ॥ava | naḥ | vāja-yum | ratham | su-karam | te | kim | it | pari | asmān | su | jigyuṣaḥ | kṛdhi