Sukta 8.80
इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः । पुरस्तादेनं मे कृधि ॥
इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः । पु॒रस्ता॑देनं मे कृधि ॥
indra prá no rátham ava paścā́c cit sántam adrivaḥ | purástād enaṃ me kṛdhi ||
O Indra, bring forward our chariot of progress, even if it has fallen behind; O wielder of the pressing-stone, set it in front for me—lead the movement of my journey.
इन्द्र॑ । प्र । नः॒ । रथ॑म् । अ॒व॒ । प॒श्चात् । चि॒त् । सन्त॑म् । अ॒द्रि॒ऽवः॒ । पु॒रस्ता॑त् । ए॒न॒म् । मे॒ । कृ॒धि॒ ॥इन्द्र । प्र । नः । रथम् । अव । पश्चात् । चित् । सन्तम् । अद्रिवः । पुरस्तात् । एनम् । मे । कृधि ॥indra | pra | naḥ | ratham | ava | paścāt | cit | santam | adri-vaḥ | purastāt | enam | me | kṛdhi