Sukta 8.79
सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः । भवा नः सोम शं हृदे ॥
सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः । भवा॑ नः सोम॒ शं हृ॒दे ॥
su-śévo no mṛḷayā́kur adṛ́pta-kratur avātáḥ | bhávā naḥ soma śáṃ hṛdé ||
Be for us, O Soma, full of good grace and compassion, with an undisturbed will, coming as a protecting aid; become for us peace and sweetness in the heart.
सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः । भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥सुशेवः । नः । मृळयाकुः । अदृप्तक्रतुः । अवातः । भव । नः । सोम । शम् । हृदे ॥su-śevaḥ | naḥ | mṛḷayākuḥ | adṛpta-kratuḥ | avātaḥ | bhava | naḥ | soma | śam | hṛde