Sukta 8.79
विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् । प्रेमायुस्तारीदतीर्णम् ॥
वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् । प्रेमायु॑स्तारी॒दती॑र्णम् ॥
vídad yát pū́rvyaṃ náṣṭam úd īm ṛta-yúm ī́rayat | prém ā́yus tārīd átīrṇam ||
When he finds what was lost from of old, he lifts up the soul that moves by the Truth; he leads forward the life and makes it cross beyond what had not been crossed.
वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् । प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋतयुम् । ईरयत् । प्र । ईम् । आयुः । तारीत् । अतीर्णम् ॥vidat | yat | pūrvyam | naṣṭam | ut | īm | ṛta-yum | īrayat | pra | īm | āyuḥ | tārīt | atīrṇam