Sukta 8.79
त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् । यावीरघस्य चिद्द्वेषः ॥
त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् । यावी॑र॒घस्य॑ चि॒द्द्वेष॑: ॥
tváṃ cittī táva dákṣair divá ā́ pṛthivyā́ ṛjīṣin | yā́vīr aghásya cid dvéṣaḥ ||
You are the discerner by your powers, O strong-pressed one, from heaven down to earth; you drive away even the hatred that springs from sin and falsehood.
त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् । यावीः । अघस्य । चित् । द्वेषः ॥tvam | cittī | tava | dakṣaiḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | yāvīḥ | aghasya | cit | dveṣaḥ