Sukta 8.78
त्वे वसूनि संगता विश्वा च सोम सौभगा । सुदात्वपरिह्वृता ॥
त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा । सु॒दात्वप॑रिह्वृता ॥
tve vasū́ni sáṅgatā víśvā ca soma sáubhagā | su-dā́tv áparihvṛtā ||
In you, O Soma, all the treasures are gathered, and every felicity. You are the good giver, not to be turned away—an unfailing bestower for the inner prosperity.
त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा । सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥त्वे इति । वसूनि । सम्गता । विश्वा । च । सोम । सौभगा । सुदातु । अपरिह्वृता ॥tve iti | vasūni | sam-gatā | viśvā | ca | soma | saubhagā | su-dātu | apari-hvṛtā