Sukta 8.78
क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः । वृत्रघ्नः सोमपाव्नः ॥
क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः । वृ॒त्र॒घ्नः सो॑म॒पाव्न॑: ॥
kratvá ít pūrṇám udáraṃ turásyāsti vidhatáḥ | vṛtraghnáḥ somapā́vnaḥ ||
By will-force his being is full; for the one who offers, the impetuous Vṛtra-slayer has a brimming inner abundance—he who drinks the Soma and makes it prevail in us.
क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः । वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥क्रत्वः । इत् । पूर्णम् । उदरम् । तुरस्य । अस्ति । विधतः । वृत्रघ्नः । सोमपाव्नः ॥kratvaḥ | it | pūrṇam | udaram | turasya | asti | vidhataḥ | vṛtra-ghnaḥ | soma-pāvnaḥ