Sukta 8.78
नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे । विश्वं शृणोति पश्यति ॥
नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥
nakī́m índro níkartave ná śakráḥ páriśaktave | víśvaṃ śṛṇoti páśyati ||
None can cut him down; none can outmatch the mighty—Indra hears all and sees all.
नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे । विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥नकीम् । इन्द्रः । निकर्तवे । न । शक्रः । परिशक्तवे । विश्वम् । शृणोति । पश्यति ॥nakīm | indraḥ | ni-kartave | na | śakraḥ | pari-śaktave | viśvam | śṛṇoti | paśyati