Sukta 8.78
नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । नान्यस्त्वच्छूर वाघतः ॥
नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त । नान्यस्त्वच्छू॑र वा॒घत॑: ॥
nakī́ṃ vṛdhīká índra te ná suṣā́ ná sudā́ utá | nā́nyas tvác chūra vā́ghataḥ ||
No one, O Indra, can increase you—neither the well-pressers nor the good-givers; nor is there any other than you, O hero, for the striving singer.
नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त । न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥नकीम् । वृधीकः । इन्द्र । ते । न । सुसाः । न । सुदाः । उत । न । अन्यः । त्वत् । शूर । वाघतः ॥nakīm | vṛdhīkaḥ | indra | te | na | su-sāḥ | na | su-dāḥ | uta | na | anyaḥ | tvat | śūra | vāghataḥ