Sukta 8.78
उत नः कर्णशोभना पुरूणि धृष्णवा भर । त्वं हि शृण्विषे वसो ॥
उ॒त न॑: कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि शृ॑ण्वि॒षे व॑सो ॥
utá naḥ karṇaśóbhānā purū́ṇi dhṛṣṇavā́ bhara | tváṃ hí śṛṇviṣé vaso ||
And bring to us many things that make the inner hearing beautiful; bring them, O bold one—since you indeed listen, O lord of plenitude.
उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ । त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥उत । नः । कर्णशोभना । पुरूणि । धृष्णो इति । आ । भर । त्वम् । हि । शृण्विषे । वसो इति ॥uta | naḥ | karṇa-śobhanā | purūṇi | dhṛṣṇo | iti | ā | bhara | tvam | hi | śṛṇviṣe | vaso iti