Sukta 8.77
निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् । इन्द्रो बुन्दं स्वाततम् ॥
निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नम् । इन्द्रो॑ बु॒न्दं स्वा॑ततम् ॥
nír ā́vidhyad girí-bhya ā́ dhā́rayat pakvám odanám | índro bundáṃ su-ā́tatam ||
Indra drilled it out from the mountains and brought forth the cooked nourishment; he won the well-formed store—spread out in fullness—for the being’s sustenance.
निः । अ॒वि॒ध्य॒त् । गि॒रिऽभ्यः॑ । आ । धा॒रय॑त् । प॒क्वम् । ओ॒द॒नम् । इन्द्रः॑ । बु॒न्दम् । सुऽआ॑ततम् ॥निः । अविध्यत् । गिरिभ्यः । आ । धारयत् । पक्वम् । ओदनम् । इन्द्रः । बुन्दम् । सुआततम् ॥niḥ | avidhyat | giri-bhyaḥ | ā | dhārayat | pakvam | odanam | indraḥ | bundam | su-ātatam