Sukta 8.77
अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा । इन्द्रो ब्रह्मभ्य इद्वृधे ॥
अ॒भि ग॑न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा । इन्द्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥
abhí gandharvám atṛṇad abudhnéṣu rájaḥ-sv ā́ | índro brahmá-bhya íd vṛdhé ||
Indra overthrew the Gandharva in the bottomless spaces of the worlds; and for the seers’ sacred word he grows—expanding as the protector and fulfiller of the mantra.
अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु॑ । रजः॑ऽसु । आ । इन्द्रः॑ । ब्र॒ह्मऽभ्यः॑ । इत् । वृ॒धे ॥अभि । गन्धर्वम् । अतृणत् । अबुध्नेषु । रजःसु । आ । इन्द्रः । ब्रह्मभ्यः । इत् । वृधे ॥abhi | gandharvam | atṛṇat | abudhneṣu | rajaḥ-su | ā | indraḥ | brahma-bhyaḥ | it | vṛdhe