Sukta 8.77
शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् । यमिन्द्र चकृषे युजम् ॥
श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् । यमि॑न्द्र चकृ॒षे युज॑म् ॥
śatá-bradhna íṣuḥ táva sahásra-parṇa éka íd | yám índra cakṛṣé yújam ||
Yours is the hundred-knotted arrow, thousand-feathered, one and yet sufficient—by which, O Indra, you have made your yoked instrument of victory.
श॒तऽब्र॑ध्नः । इषुः॑ । तव॑ । स॒हस्र॑ऽपर्णः । एकः॑ । इत् । यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज॑म् ॥शतब्रध्नः । इषुः । तव । सहस्रपर्णः । एकः । इत् । यम् । इन्द्र । चकृषे । युजम् ॥śata-bradhnaḥ | iṣuḥ | tava | sahasra-parṇaḥ | ekaḥ | it | yam | indra | cakṛṣe | yujam