Sukta 8.77
समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया । प्रवृद्धो दस्युहाभवत् ॥
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या । प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥
sám ít tā́n vṛtra-hā́ akhidat | khé arā́n-iva khedayā́ | prá-vṛddho dasyu-hā́ abhavat ||
Then the Vṛtra-slayer pressed upon them and wore them down, as one grinds the spokes in the axle-space; growing in force, he became the slayer of the Dasyu within.
सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या । प्रऽवृ॑द्धः । द॒स्यु॒हा । अ॒भ॒व॒त् ॥सम् । इत् । तान् । वृत्रहा । अखिदत् । खे । अरान्इव । खेदया । प्रवृद्धः । दस्युहा । अभवत् ॥sam | it | tān | vṛtra-hā | akhidat | khe | arān-iva | khedayā | pra-vṛddhaḥ | dasyuhā | abhavat