Sukta 8.77
विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः । शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः । श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ॥
viśvā́ ít tā́ víṣṇur ā́bharad urukramás tvā́iṣitaḥ | śatáṃ mahiṣā́n kṣīrapākám odanám varāhám índra emuṣám ||
Indeed Vishnu of the wide strides brought all these to you, urged by your blazing will: a hundred powerful energies, the milk-cooked nourishment, and the boar—Emuṣa—O Indra, as a force to be mastered and transformed.
विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः । श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरुक्रमः । त्वाइषितः । शतम् । महिषान् । क्षीरपाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम् ॥viśvā | it | tā | viṣṇuḥ | ā | abharat | uru-kramaḥ | tvāiṣitaḥ | śatam | mahiṣān | kṣīra-pākam | odanam | varāham | indraḥ | emuṣam