Sukta 8.77
तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः । उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥
तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑: सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑: । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥
tuvikṣáṃ te sukṛ́taṃ sūmáyaṃ dhánuḥ sādhúr bundó hiraṇyáyaḥ | ubhā́ te bāhū́ raṇyā́ susaṃskṛtā ṛdūpé cid ṛdūvṛ́dhā ||
Yours is the far-reaching, well-fashioned bow, full of glad force; the golden-pointed stroke is straight and true. And both your arms are delight-giving, perfectly formed—growing even in the gentle ways, increasing the gentle power.
तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ । उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥तुविक्षम् । ते । सुकृतम् । सुमयम् । धनुः । साधुः । बुन्दः । हिरण्ययः । उभा । ते । बाहू इति । रण्या । सुसंस्कृता । ऋदुपे । चित् । ऋदुवृधा ॥tuvi-kṣam | te | su-kṛtam | su-mayam | dhanuḥ | sādhuḥ | bundaḥ | hiraṇyayaḥ | ubhā | te | bāhū iti | raṇyā | su-saṃskṛtā | ṛdu-pe | cit | ṛdu-vṛdhā