Sukta 8.76
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु । वज्रं शिशान ओजसा ॥
पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु । वज्रं॒ शिशा॑न॒ ओज॑सा ॥
píbed índra marútsakhā sutáṃ sómaṃ divíṣṭiṣu | vájraṃ śíśāna ójasā ||
Drink, O Indra, friend of the Maruts, this pressed Soma in the high reaches of the luminous striving; whetting thy thunderbolt with strength, come as the sharpened power that breaks obstruction.
पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु । वज्र॑म् । शिशा॑नः । ओज॑सा ॥पिब । इत् । इन्द्र । मरुत्सखा । सुतम् । सोमम् । दिविष्टिषु । वज्रम् । शिशानः । ओजसा ॥piba | it | indra | marut-sakhā | sutam | somam | diviṣṭiṣu | vajram | śiśānaḥ | ojasā